ॐ सोऽहं तत्पुरुषाय विद्महे शिव गोरक्षाय धीमहि तन्नो गोरक्षःप्रचोदयात्।

विष्णुप्रिया लक्ष्मी, शिवप्रिया सती से प्रकट हुई कामेक्षा भगवती आदि शक्ति युगल मूर्ति महिमा अपार, दोनों की प्रीति अमर जाने संसार, दुहाई कामाक्षा की, आय बढ़ा व्यय घटा, दया कर माई। ऊँ नमः विष्णुप्रियाय, ऊँ नमः शिवप्रियाय, ऊँ नमः कामाक्षाय ह्रीं ह्रीं श्रीं श्रीं फट् स्वाहा
प्रार्थना
हे मां लक्ष्मी, शरण हम तुम्हारी।
पूरण करो अब माता कामना हमारी।।
धन की अधिष्ठात्री, जीवन-सुख-दात्री।
सुनो-सुनो अम्बे सत्-गुरु की पुकार।
शम्भु की पुकार, मां कामाक्षा की पुकार।।
तुम्हें विष्णु की आन, अब मत करो मान।
आशा लगाकर अम देते हैं दीप-दान।।
“ॐ नमः विष्णु-प्रियायै, ॐ नमः कामाक्षायै। ह्रीं ह्रीं ह्रीं क्रीं क्रीं क्रीं श्रीं श्रीं श्रीं फट् स्वाहा।”
मोहिनी मोहिनी मैं करा मोहिनी मेरा नाम |राजा मोहा प्रजा मोहा मोहा शहर ग्राम ||त्रिंजन बैठी नार मोहा चोंके बैठी को |स्तर बहतर जिस गली मैं जावा सौ मित्र सौ वैरी को ||वाजे मन्त्र फुरे वाचा |देखा महा मोहिनी तेरे इल्म का तमाशा ||

Maruti Stotra, श्रीमारुति स्तोत्र

hanuman stotra, hanuman mantra this maruti stotra is very powerful it remove all bad effect of Saturn Rahu Ketu in your kundli if your star signs, horoscope signs or astrology signs are badly effected by Saturn Rahu Ketu then in front of hanuman yantra chant maruti stotra 11 times daily you will get great positive effect of all planets and get health and wealth.
if your numerology number is 4 or 8 then also use this maruti stotra.
                                                            ॥ मारुतिस्तोत्रम् ॥
श्रीगणेशाय नम: ॥
ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानलप्रभाप्रज्वलनाय ।
प्रतापवज्रदेहाय । अंजनीगर्भसंभूताय ।
प्रकटविक्रमवीरदैत्यदानवयक्षरक्षोगणग्रहबंधनाय ।
भूतग्रहबंधनाय । प्रेतग्रहबंधनाय । पिशाचग्रहबंधनाय ।
शाकिनीडाकिनीग्रहबंधनाय । काकिनीकामिनीग्रहबंधनाय ।
ब्रह्मग्रहबंधनाय । ब्रह्मराक्षसग्रहबंधनाय । चोरग्रहबंधनाय ।
मारीग्रहबंधनाय । एहि एहि । आगच्छ आगच्छ । आवेशय आवेशय ।
मम हृदये प्रवेशय प्रवेशय । स्फुर स्फुर । प्रस्फुर प्रस्फुर । सत्यं कथय ।
व्याघ्रमुखबंधन सर्पमुखबंधन राजमुखबंधन नारीमुखबंधन सभामुखबंधन
शत्रुमुखबंधन सर्वमुखबंधन लंकाप्रासादभंजन । अमुकं मे वशमानय ।
क्लीं क्लीं क्लीं ह्रुीं श्रीं श्रीं राजानं वशमानय ।
श्रीं हृीं क्लीं स्त्रिय आकर्षय आकर्षय शत्रुन्मर्दय मर्दय मारय मारय
चूर्णय चूर्णय खे खे
श्रीरामचंद्राज्ञया मम कार्यसिद्धिं कुरु कुरु
ॐ हृां हृीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा
विचित्रवीर हनुमत् मम सर्वशत्रून् भस्मीकुरु कुरु ।
हन हन हुं फट् स्वाहा ॥
एकादशशतवारं जपित्वा सर्वशत्रून् वशमानयति नान्यथा इति ॥
इति श्रीमारुतिस्तोत्रं संपूर्णम् ॥

Surya Mandal Ashtakam Stotra श्रीसूर्यमण्डलाष्टक स्तोत्रम्

see your astrology chart horoskop (kundli) if your sun is placed in Saturn's house or sun and Saturn combine in any house of horoscope or rahu (dragon head) and sun combine in any house of horoscopes then Surya Mandal Ashtakam is very useful for you chant this latest one time in front of god sun you will get great bless of god sun. you will never get bad effect of any planet.
॥ श्रीसूर्यमण्डलाष्टक स्तोत्रम् ॥
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाश हेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चि नारायण शंकरात्मने ॥ १ ॥
यन्मडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम् ।
दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ २ ॥
यन्मण्डलं देवगणै: सुपूजितं विप्रैः स्तुत्यं भावमुक्तिकोविदम् ।
तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ३ ॥
यन्मण्डलं ज्ञानघनं, त्वगम्यं, त्रैलोक्यपूज्यं, त्रिगुणात्मरुपम् ।
समस्ततेजोमयदिव्यरुपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ४ ॥
 यन्मडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ५ ॥
यन्मडलं व्याधिविनाशदक्षं यदृग्यजु: सामसु सम्प्रगीतम् ।
प्रकाशितं येन च भुर्भुव: स्व: पुनातु मां तत्सवितुर्वरेण्यम् ॥ ६ ॥
यन्मडलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघाः ।
यद्योगितो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ ७ ॥
यन्मडलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके ।
यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ८ ॥
यन्मडलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् ।
यस्मिन् जगत् संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ९ ॥
 यन्मडलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्ध तत्त्वम् ।
सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १० ॥
यन्मडलं वेदविदि वदन्ति गायन्ति यच्चारणसिद्धसंघाः ।
यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥ ११ ॥
यन्मडलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् ।
तत्सर्ववेदं प्रणमामि सूर्य पुनातु मां तत्सवितुर्वरेण्यम् ॥ १२ ॥
मण्डलात्मकमिदं पुण्यं यः पठेत् सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १३ ॥
॥ इति श्रीमदादित्यहृदये मण्डलात्मकं स्तोत्रं संपूर्णम् ॥
   

Ketu PanchaVinshatiNam Stotra केतुपचविंशतिनामस्तोत्रम्

if dragon’s tail or Ketu is placed in 2nd, 8th, 12th house in astrologia horoskop of your horoscopes or In a horoscope, when all the planets are placed in-between Rahu & Ketu, then it is called a Kalsarpa yog then chanting of Ketu PanchaVinshatiNam Stotra regularly is the most powerful way to please Ketu and get his blessing.it is taken from श्रीस्कंदपुराणे
॥ केतुपचविंशतिनामस्तोत्रम् ॥
अस्य श्रीकेतुपञ्चविंशतीनामस्तोत्रस्य मधुच्छन्दो ऋषिः ।
गायत्री छन्दः । केतुर्देवता । केतुप्रीत्यर्थं जपे विनियोगः ॥
केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः ।
लोककेतुर्महाकेतुः सर्वकेतुर्भयप्रदः ॥ १ ॥
रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक् ।
पलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक् ॥ २ ॥
तारागणविमर्दी च जैमिनेयो ग्रहाधिपः ।
पञ्चविंशति नामानि केतोर्यः सततं पठेत् ॥ ३ ॥
तस्य नश्यंति बाधाश्च सर्वाः केतुप्रसादतः ।
धनधान्यपशूनां च भवेत् वृद्धिर्न संशयः ॥ ४ ॥

॥ इति श्रीस्कंदपुराणे केतोः पञ्चविंशतिनामस्तोत्रम् संपूर्णम् ॥

NavGraha Kavacha नवग्रह कवच

In Navgraha Kavacha all nine planet Sun Moon Mars Mercury Jupiter Venus Saturn Rahu Ketu save you all bad effect of your horoscope signs.Chanting of Nav Graha Kavacha regularly in morning is the most powerful way to please Nav Graha and get his blessing and health wealth and son. it is taken from यामलतंत्रे
॥नवग्रह कवच ॥
ॐ शिरो मे पातु मार्त्तण्डः कपालं रोहिणीपतिः ।
मुखमङ्गारकः पातु कण्ठं च शशिनन्दनः ॥ १ ॥
बुद्धि जीवः सदा पातु हृदयं गुननदनः ।
जठरं च शनिः पातु जिव्हां मे दितिनन्दनः ॥ २ ॥
पादौ केतुः सदा पातु वाराः सर्वांगमेव च ।
तिथयोऽष्टौ दिशाः पान्तु नक्षत्राणि वपुः सदा ॥ ३ ॥
अंसौ राशिः सदा पातु योगश्र्च स्थैर्यमेव च ।
सुचिरायुः सुखी पुत्री युद्धे च विजयी भवेत् ॥ ४ ॥
रोगात्प्रमुचते रोगी बन्धो मुच्येत बन्धनात् ।
श्रियं च लभते नित्यं रिष्टितस्य न जायते ॥ ५ ॥
यः करे धारयेन्नित्यं तस्य रिष्टिर्न जायते ।
पठनात् कवचस्यास्य सर्वपापात् प्रमुच्यते ॥ ६ ॥
मृतवत्सा च या नारी काकवत्सा च या भवेत् ।
जीववत्सा पुत्रवती भवत्येव च न संशयः ।
एतां रक्षां पठेत् यस्तु अङ्गं स्पृष्ट्वापि वा पठेत् ॥ ७ ॥

॥ इति श्री यामलतंत्रे श्री नवग्रह कवच संपूर्णं ॥


Navgraha Prarthana नवग्रह प्रार्थना

This is prayer of  Navgraha Sun Moon Mars Mercury Jupiter Venus Saturn Rahu dragon’s head and Ketu dragon’s tail this is chant in only morning time for blessing of all the planets.
॥  नवग्रह प्रार्थना ॥
ब्रह्मामुरारित्रिपुरांतकारी भानुः
शशि भूमिसुतो बुधः च ।
गुरुश्र्च शुक्रश्र्च शनिराहुकेतवः
कुर्वन्तु सर्वे मम सुप्रभातम् ॥ १ ॥
सूर्यः शौर्यमधेन्दुरुश्र्चपदवीं सन्मङ्गलं मङ्गलः 
सद्बुद्धि च बुधो गुरुश्र्च गुरुतां शुक्रः सुखं शं शनिः ।
राहुर्बाहुबलं करोतु विपुलं केतुर्जननोन्नतिं

नित्यं प्रितिकरः भवन्तु जगतां सर्वे प्रसन्ना ग्रहाः ॥ २ ॥

Surya Kavacham श्रीसूर्यकवचस्तोत्रम्

This is great Kavach of God Sun it save you all type of disease and give you long life it also remove bad effect of your horoskop chanting of Surya Kavacham regularly in morning  is the most powerful way to please Surya and get his blessing.
II अथ श्रीसूर्यकवचस्तोत्रम् II
श्री गणेशाय नमः I
याज्ञवल्क्य उवाच I
श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् I
शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् II १ II
दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् I
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् II २ II
शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः I
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः II ३ II
घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः I
जिह्वां मे मानदः पातु कंठं मे सुरवंदितः II ४ II
स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः I
पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः II ५ II
सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके I
दधाति यः करे तस्य वशगाः सर्वसिद्धयः II ६ II
सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः I
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति II ७ II

II इति श्री माद्याज्ञवल्क्यमुनिविरचितं सूर्यकवचस्तोत्रं संपूर्णं II

Navagraha Stotram नवग्रह स्तोत्र

Navagraha Stotram, Navagraha Stotra is best strotra for all nine planets Navagraha Sun Moon Mars Mercury Jupiter Venus Saturn Rahu(dragon’s head) Ketu(dragon’s tail) chanting of Navagraha Stotram regularly in morning  the most powerful way to please Navagraha and get his blessing. it remove all bad effect of  star signs and you will get health and wealth both from Navagraha Stotram.

       II अथ नवग्रह स्तोत्र II
                   श्री गणेशाय नमः

जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् I
तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् II १ II
दधिशंखतुषाराभं क्षीरोदार्णव संभवम् I
नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् II २ II
धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् I
कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् II ३ II
प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् I
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् II ४ II
देवानांच ऋषीनांच गुरुं कांचन सन्निभम् I
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् II ५ II
हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् I
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् II ६ II
नीलांजन समाभासं रविपुत्रं यमाग्रजम् I
छायामार्तंड संभूतं तं नमामि शनैश्चरम् II ७ II
अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् I
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् II ८ II
पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् I
रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् II ९ II
इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः I
दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति II १० II
नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् I
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् II ११ II
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः I
ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः II १२ II

II इति श्रीव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं II

“ॐ नमो भगवते काम-देवाय श्रीं सर्व-जन-प्रियाय सर्व-जन-सम्मोहनाय ज्वल-ज्वल, प्रज्वल-प्रज्वल, हन-हन, वद-वद, तप-तप,सम्मोहय-सम्मोहय, सर्व-जनं मे वशं कुरु-कुरु स्वाहा।”
बंगाल की रानी करे मेहमानी मुंज बनी के कावा पद्मावती बैठ खावे मावा सत्तर सुलेमान ने हनुमान को रोट लगाया हनुमान ने राह संकट हराया तारा देवी आवे घर हात उठाके देवे वर सतगुरु ने सत्य का शब्द सुनाया सुन योगी आसन लगाया किसके आसन किसके जाप जो बोल्यो सत गुरु आप हर की पौड़ी लक्ष्मी की कौड़ी सुलेमान आवे चढ़ घोड़ी आउ आउ पद्मा वती माई करो भलाई न करे तोह गुरु गोरक्ष की दुहाई.