ॐ सोऽहं तत्पुरुषाय विद्महे शिव गोरक्षाय धीमहि तन्नो गोरक्षःप्रचोदयात्।

विष्णुप्रिया लक्ष्मी, शिवप्रिया सती से प्रकट हुई कामेक्षा भगवती आदि शक्ति युगल मूर्ति महिमा अपार, दोनों की प्रीति अमर जाने संसार, दुहाई कामाक्षा की, आय बढ़ा व्यय घटा, दया कर माई। ऊँ नमः विष्णुप्रियाय, ऊँ नमः शिवप्रियाय, ऊँ नमः कामाक्षाय ह्रीं ह्रीं श्रीं श्रीं फट् स्वाहा
प्रार्थना
हे मां लक्ष्मी, शरण हम तुम्हारी।
पूरण करो अब माता कामना हमारी।।
धन की अधिष्ठात्री, जीवन-सुख-दात्री।
सुनो-सुनो अम्बे सत्-गुरु की पुकार।
शम्भु की पुकार, मां कामाक्षा की पुकार।।
तुम्हें विष्णु की आन, अब मत करो मान।
आशा लगाकर अम देते हैं दीप-दान।।
“ॐ नमः विष्णु-प्रियायै, ॐ नमः कामाक्षायै। ह्रीं ह्रीं ह्रीं क्रीं क्रीं क्रीं श्रीं श्रीं श्रीं फट् स्वाहा।”
मोहिनी मोहिनी मैं करा मोहिनी मेरा नाम |राजा मोहा प्रजा मोहा मोहा शहर ग्राम ||त्रिंजन बैठी नार मोहा चोंके बैठी को |स्तर बहतर जिस गली मैं जावा सौ मित्र सौ वैरी को ||वाजे मन्त्र फुरे वाचा |देखा महा मोहिनी तेरे इल्म का तमाशा ||

Devyah Kavacham श्री चण्डी कवच



श्रीगणेशाय नमः ॥
अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः । अनुष्टुप् छंदः ।
चामुण्डा देवता । अंगन्यासोक्तमातरो बीजम् । 
दिग्बंधदेवतास्तत्त्वम् । श्रीजगदंबाप्रीत्यर्थे जपे विनियोगः ।
ॐनमश्र्चण्डिकायै । ॐमार्कण्डेय उवाच ।
ॐयद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥
ब्रह्मोवाच ।
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥
 
प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥
पंचमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रिश्र्च महागौरीति चाष्टमम् ॥ ४ ॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे । 
विषमे दुर्गमे भयार्ताः शरणं गताः ॥ ६ ॥
न तेषां जायते किंचिदशुभं रणसंकटे ।
नापदं तस्य पश्यामि शोकदुःखभयं नहि ॥ ७ ॥
यैस्तु भक्त्या स्मृता नूनं तेषांम सिद्धिः प्रजायते ।
प्रेतसंस्था तु चामुण्डा वाराहि महिषासना ॥ ८ ॥
ऐन्द्री गजसमारुढा वैष्णवी गरुडासना ।
माहेश्र्वरी वृषारुढा कौमारी शिखिवाहना ॥ ९ ॥
ब्राह्मी हंससमारुढा सर्वाभरणभूषिता ।
नानाभरणशोभाढ्या नानारत्नोपशोभिता ॥ १० ॥
दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः ।
शंखं चक्रं गदां शक्तिं हलं मुसलायुधं ॥ ११ ॥
खेटकं तोमरं चैव परशुं पाशमेव च ।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १२ ॥
दैत्यानां देहनाशाय भक्तानामभयाय च ।
धारयन्त्यायुधानीत्यं देवानां च हिताय वै ॥ १३ ॥
महाबले महोत्साहे महाभयविनाशिनि ।
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥ १४ ॥
प्राच्यां रक्षतु मामेन्द्री आग्नेय्यामग्निदेवता ।
दक्षिणेऽवतु वाराही नैर्ऋत्यां खङ्गधारिणी ॥ १५ ॥
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ।
उदीच्यां रक्ष कौबेरि ईशान्यां शूलधारिणी ॥ १६ ॥
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
एवं दश दिशो रक्षेचामुण्डा शववाहना ॥ १७ ॥
जया मे अग्रतः स्थातु विजया स्थातु पृष्ठतः ।
अजिता वामपार्श्र्वे तु दक्षिणे चापराजिता ॥ १८ ॥
शिखां मे द्योतिनी रक्षेदुमा मूर्घ्निं व्यवस्थिता ।
मालाधरी ललाटेच भ्रुवौ रक्षेद्यशस्विनी ॥ १९ ॥
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ।
शंखिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ॥ २० ॥
कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी ।
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ॥ २१ ॥
अधरे चामृतकला जिह्वायां च सरस्वती ।
दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ॥ २२ ॥
घण्टिकां चित्रघण्टा च महामाया च तालुके ।
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमंगला ॥ २३ ॥
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ।
नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ॥ २४ ॥
खङ्गधारिण्युभौ स्कंधौ बाहू मे वज्रधारिणी ।
हस्तयोर्दण्डिनी रक्षेदम्बिका चांगुलीस्तथा ॥ २५ ॥
नखञ्छूलेश्र्वरी रक्षेत् कुक्षौ रक्षेन्नलेश्र्वरी ।
स्तनौ रक्षेन्महालक्ष्मीर्मनःशोकविनाशिनी ॥ २६ ॥
हृदये ललितादेवी उदरे शूलधारिणी ।
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्र्वरी तथा ॥ २७ ॥
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
भूतनाथा च मेढ्रं मे ऊरु महिषवाहिनी ॥ २८ ॥
जंघे महाबला प्रोक्ता सर्वकामप्रदायिनी ।
गुल्फयोर्नारसिंही च पादौ चामिततेजसी ॥ २९ ॥
पादांगुलीः श्रीर्मे रक्षेत्पादास्तलवासिनी ।
नखान्दंष्ट्राकराली च केशांश्र्चेवोर्ध्वकेशिनी ॥ ३० ॥
रोमकूपेषु कौबेरी त्वचं वागीश्र्वरी तथा ।
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ॥ ३१ ॥
अन्त्राणि कालरात्रिश्र्च पित्तं च मुकुटेक्ष्वरी ।
पद्मावती पद्मकोशे कफे चूडामणिस्तथा ॥ ३२ ॥
ज्वालामुखी नखज्वाला अभेद्या सर्वसंधिषु ।
शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्र्वरी तथा ॥ ३३ ॥
अहंकार मनो बुद्धिं रक्ष मे धर्मचारिणि ।
प्राणापानौ तथा व्यानं समानोदानमेव च ॥ ३४ ॥
यशः कीर्ति च लक्ष्मीं च सदा रक्षतु वैष्णवी ।
गोत्रमिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके ॥ ३५ ॥
पुत्रान् रक्षेन्महालक्ष्मीर्भार्या रक्षतु भैरवी ।
मार्गं क्षेमकरी रक्षेद्विजया सर्वतः स्थिता ॥ ३६ ॥
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ३७ ॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
कवचेनावृतो नित्यं यत्र यत्राधिगच्छति ॥ ३८ ॥
तत्र तत्रार्थलाभश्र्च विजयः सार्वकामिकः ।
यं यं कामयते कामं तं तं प्राप्नोति निश्र्चितम् ॥ ३९ ॥
परमैक्श्र्वर्यतुलं प्राप्स्यते भूतले पुमान् ।
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥ ४० ॥
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् । 
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ ४१ ॥
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।
दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः ॥ ४२ ॥
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ।
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥ ४३ ॥
स्थावरं जंगमं वापि कृत्रिमं चापि यद्विषम् ।
अभिचाराणि सर्वाणि मंत्रयंत्राणि भूतले ॥ ४४ ॥
भूचराः खेचराश्र्चैव जलजाश्र्चोपदेशिकाः ।
सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ॥ ४५ ॥
अन्तरिक्षचरा घोरा डाकिन्यश्र्च महाबलाः ।
ग्रहभूतपिशाचाश्र्च यक्षगन्धर्वराक्षसाः ॥ ४६ ॥
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ।
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ ४७ ॥
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् । 
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥ ४८ ॥
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥ ४९ ॥
तावत्तिष्टति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ ५० ॥
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ५१ ॥

॥ इति श्रीवाराहपुराणे हरिहरब्रह्मविरचितं देव्याः कवचम् संपूर्णम् ॥

No comments:

Post a Comment

“ॐ नमो भगवते काम-देवाय श्रीं सर्व-जन-प्रियाय सर्व-जन-सम्मोहनाय ज्वल-ज्वल, प्रज्वल-प्रज्वल, हन-हन, वद-वद, तप-तप,सम्मोहय-सम्मोहय, सर्व-जनं मे वशं कुरु-कुरु स्वाहा।”
बंगाल की रानी करे मेहमानी मुंज बनी के कावा पद्मावती बैठ खावे मावा सत्तर सुलेमान ने हनुमान को रोट लगाया हनुमान ने राह संकट हराया तारा देवी आवे घर हात उठाके देवे वर सतगुरु ने सत्य का शब्द सुनाया सुन योगी आसन लगाया किसके आसन किसके जाप जो बोल्यो सत गुरु आप हर की पौड़ी लक्ष्मी की कौड़ी सुलेमान आवे चढ़ घोड़ी आउ आउ पद्मा वती माई करो भलाई न करे तोह गुरु गोरक्ष की दुहाई.