ॐ सोऽहं तत्पुरुषाय विद्महे शिव गोरक्षाय धीमहि तन्नो गोरक्षःप्रचोदयात्।

विष्णुप्रिया लक्ष्मी, शिवप्रिया सती से प्रकट हुई कामेक्षा भगवती आदि शक्ति युगल मूर्ति महिमा अपार, दोनों की प्रीति अमर जाने संसार, दुहाई कामाक्षा की, आय बढ़ा व्यय घटा, दया कर माई। ऊँ नमः विष्णुप्रियाय, ऊँ नमः शिवप्रियाय, ऊँ नमः कामाक्षाय ह्रीं ह्रीं श्रीं श्रीं फट् स्वाहा
प्रार्थना
हे मां लक्ष्मी, शरण हम तुम्हारी।
पूरण करो अब माता कामना हमारी।।
धन की अधिष्ठात्री, जीवन-सुख-दात्री।
सुनो-सुनो अम्बे सत्-गुरु की पुकार।
शम्भु की पुकार, मां कामाक्षा की पुकार।।
तुम्हें विष्णु की आन, अब मत करो मान।
आशा लगाकर अम देते हैं दीप-दान।।
“ॐ नमः विष्णु-प्रियायै, ॐ नमः कामाक्षायै। ह्रीं ह्रीं ह्रीं क्रीं क्रीं क्रीं श्रीं श्रीं श्रीं फट् स्वाहा।”
मोहिनी मोहिनी मैं करा मोहिनी मेरा नाम |राजा मोहा प्रजा मोहा मोहा शहर ग्राम ||त्रिंजन बैठी नार मोहा चोंके बैठी को |स्तर बहतर जिस गली मैं जावा सौ मित्र सौ वैरी को ||वाजे मन्त्र फुरे वाचा |देखा महा मोहिनी तेरे इल्म का तमाशा ||

Ram Stotram by Ahalya अहल्याकृतं रामस्तोत्रम्

 अहल्योवाच ॥

अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् ।
स्पृशामि यत्पद्मजशंकरादिभि र्विमृग्यते रंधितमानसैः सदा ॥ १ ॥
अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् ।
चलस्यजग्रं चरणादिवर्जितः संपूर्ण आनंदमयोऽतिमायिकः ॥ २ ॥
यत्पादपंकजपरागपवित्रगात्रा भागीरथी भवविरिचिमुखान्पुनाति ।
साक्षात्स एव मम दृग्विषयो यदाऽऽस्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३ ॥
मर्त्यावतारे मनुजाकृतिं हरि रामाभिधेयं रमणीयदेहिनम् ।
धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजिष्ये ॥ ४ ॥
यत्पादपंकजरजः श्रुतिभिर्विमृग्यं यन्नाभिषंकजभवः कमलासनश्र्च ।
यन्नामसाररसिको भगवान्पुरारिस्तं रामचंद्रमनिशं ह्रदि भावयामि ॥ ५ ॥
यस्यावतारचरितानि विरिचिलोके गायंति नारदमुखा भवपद्मजायाः ।
आनंदजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्र्वरी च तमहं शरणं प्रपद्ये ॥ ६ ॥
सोऽयं परात्मा पुरुषः पुराण एषः स्वयंज्योतिरनंत आद्यः ।
मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥ ७ ॥
अयं हि विश्र्वोद्भवसंयमानाम् ऐकः स्वमायागुणबिंबितो यः ।
विरिचिविष्ण्वीश्र्वरनामभेदान् धत्ते स्वतंत्रः परिपूर्णं आत्मा ॥ ८ ॥
नमोऽस्तु ते राम तवांघ्रिपंकजं श्रिया धृतं वक्षसि लालितं प्रियात् ।
आक्रांतमेकेन जगत्र्त्रयं पुरा ध्येयं मुनींद्रैरभिमानवर्जितैः ॥ ९ ॥
जगतामादिभूतस्त्वं जगत्वं जगदाश्रयः ।
सर्वभुतेष्वसंयुक्त एको भाति भवान्परः ॥ १० ॥
ॐकारवाच्यस्त्वं राम वाचामविषयः पुमान् ।
वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ११ ॥
कार्यकारणकर्तृत्व फलसाधनभेदतः ।
एको विभासि राम त्वं मायया बहुरुपया ॥ १२ ॥
त्वन्मायामोहितधियस्त्वां न जानंति तत्वतः ।
मानुषं त्वाऽभिमन्यन्ते मायिनं परमेश्र्वरम् ॥ १३ ॥
आकाशवत्त्वं सर्वत्र बहिरंतर्गतोऽमलः ।
असंगो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ १४ ॥
योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो ।
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ १५ ॥
देव मे यत्रकुत्रापि स्थिताया अपि सर्वदा ।
त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥ १६ ॥
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल ।
नमस्तेऽस्तु ह्रषीकेश नारायण नमोऽस्तु ते ॥ १७ ॥
भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् ।
कनकरुचिरवस्रं रत्नवत्कुंडलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥ १८ ॥ स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् ।
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् ॥ १९ ॥
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ।
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ २० ॥
पुत्राद्यर्थे पठेद्भक्त्या रामं ह्रदि निधाय च ।
संवत्सरेण लभते वंध्या अपि सुपुत्रकम् ॥ २१ ॥
सर्वान्कामानवाप्नोति रामचंद्रप्रसादतः ॥ २२ ॥
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धादरः ।
नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या ह्रदिस्थं स्मरन्
ध्यायन् मुक्तिमुपैति किं पुनरसो स्वाचारयुक्तो नरः ॥ २३ ॥
इति श्रीमदध्यात्मरामायणे उमामहेश्र्वरसंवादे बालकांडांतर्गतम् अहल्याविरचितं रामचंद्रस्तोत्रं संपूर्णम् ॥
“ॐ नमो भगवते काम-देवाय श्रीं सर्व-जन-प्रियाय सर्व-जन-सम्मोहनाय ज्वल-ज्वल, प्रज्वल-प्रज्वल, हन-हन, वद-वद, तप-तप,सम्मोहय-सम्मोहय, सर्व-जनं मे वशं कुरु-कुरु स्वाहा।”
बंगाल की रानी करे मेहमानी मुंज बनी के कावा पद्मावती बैठ खावे मावा सत्तर सुलेमान ने हनुमान को रोट लगाया हनुमान ने राह संकट हराया तारा देवी आवे घर हात उठाके देवे वर सतगुरु ने सत्य का शब्द सुनाया सुन योगी आसन लगाया किसके आसन किसके जाप जो बोल्यो सत गुरु आप हर की पौड़ी लक्ष्मी की कौड़ी सुलेमान आवे चढ़ घोड़ी आउ आउ पद्मा वती माई करो भलाई न करे तोह गुरु गोरक्ष की दुहाई.